________________ महोपनिषद् अध्यात्म दर्शना अथ स्वाभिप्रेतपर्यायस्योत्पन्नतया हर्षः, तद्विनाशे च शोक उपपन्न एव सचेतसोऽपीति चेत् ? प्रथमतस्तु क: स्व इत्येवोच्यताम्, मन इति चेत् ? न, सचेतस्ताक्षतेः, तस्य पुद्गलात्मकत्वेन स्वत्वायोगात् / भावमनआत्मक आत्मपरिणाम इति चेत् ? न, तस्याप्यौपाधिकत्वेन परत्वानतिक्रमात्, सिद्धानां तद्विरहात् / आत्मैव तीस्तु विशुद्धः स्व इति चेत् ? शोभनम्, किन्तु नास्य किञ्चिदभिप्रेतमेव भवति, उक्तनीत्याऽभिप्रायस्यैव परत्वात् / एवञ्च सर्वोऽपि हर्षादिविकारो वन्ध्यापुत्रजन्मोत्सववर्तिनृत्यप्रमोदं स्पर्द्धते, स्वाभिप्रेतस्य वास्तवस्याभावे तद्गोचरोत्पादादिहेतुकहर्षादेस्तदनतिरेकात् / एवं च जगन् मूढतया तत्त्वतः पराभिप्राय एव स्वाभिप्रायमारोप्य तत्तत्खेदादिविडम्बनाभाजनं भवति। ननु चैवमुपशमाद्यात्मगुणानामपि स्वाभिप्रेतत्वेनासिद्धिः स्यादिति चेत् ? को वा किमाह ? परमार्थचिन्तायां तदिच्छाया अपि परत्वानतिक्रमात्, अत एवोच्यते - न शान्ति लभते मूढो यतः शमितुमिच्छति / धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः // मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति / अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् - इति (अष्टावक्रगीतायाम् ) / नन्वेवं स्वभावलाभेच्छाऽपि हेया स्यादिति चेत् ? दशाविशेषमधिकृत्यैवमेव, मोक्षे भवे च सर्वत्र नि:स्पृहो मुनिसत्तमः - इत्युक्तेः, तदेतत्सत्तमाधस्तनदशावत्तिनां तु सेच्छोपादेया, विश्वस्यापि विश्वस्य स्याद्वादमुद्रानति