SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्म दर्शना तदत्यन्तक्षययोगाद्धदयग्रन्थिभेदः, ततोऽपि सर्वज्ञतोदयात्सर्वसंशयछेदः, स वीयरागो कयसव्वकिच्चो खवेइ नाणावरणं खणेण - (उत्तराध्ययने) इत्युक्तेः, ततश्च सर्वकर्मसङ्क्षयोऽपीति न किञ्चिदनुपपन्नम् / नन्वनादिभवभावनास्वभ्यस्तो हि विषयादिरसः, कथमसौ सकृत् तत्त्वदर्शनमात्रेण निवर्तेतेति चेत् ? नैसर्गिकत्वात्प्रेक्षितपीयूषविषनिवर्तनस्येति गृहाण, स्वरूपदर्शनोदितानन्दाद्वैतैकनिमग्नस्य तदसम्भवाभावात्, यदुक्तम् - ब्रह्मानन्दे निमग्नस्य विषयाशा न तद् भवेत् / विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् - इति (जाबालदर्शनोपनिषदि)। अन्यत्रापि - रसवर्णं रसोऽप्यस्य परं दृष्ट्वा निवर्तते - इति (भगवद्गीतायाम् ) / तस्मात् अनात्मतां परित्यज्य, निर्विकारो जगत्स्थितौ / एकनिष्ठतयान्तःस्थः, संविन्मात्रपरो भवः // 4-83 // अनात्मताम् - देहादिपुद्गलेष्वात्मभावनाम्, परित्यज्य - विवेकलोचनेन वस्तुस्वरूपमुपलभ्य मनसाऽपि परिहत्य, जगत्स्थितौ - उत्पादव्ययध्रौव्यात्मकविश्वविश्वपदार्थसार्थमद्रायाम, निर्विकारः - हर्षशोकादिविकारकलङ्कविनिर्मुक्तः, परमार्थतः प्रतिक्षणमपि वस्तुमात्रस्य त्रयात्मकतयोत्पादाद्यन्यतरमेवाभिसन्धाय हर्षादिकरणस्य मौटुंपिशुनत्वात् /
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy