SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना तच्छश्वत्त्वे तत्पारमार्थिकत्वप्रसक्तेः / तच्च जगत्यपि चेत्समानम्, तदा कस्तस्य स्वप्नादेविशेषः ?, स्वप्नस्याप्यन्यथाऽस्वप्नत्वप्रसङ्गान्न कोऽपि विशेष इत्याशयः, अभिहितञ्च-आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् / मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं तत् किं वस्तु भवे भवेदिह मुदामालम्बनं यत् सताम् - इति (शान्तसुधारसे)। अथ सदसद्वाऽप्यस्तु जगत्, कस्तदास्थाकरणे दोष इति चेत् ? को नेति पृच्छ्यताम्, सर्वदोषनिलयसंसारहेतुत्वात्तस्य, रागादिनिदानत्वात्, कथञ्चित्तदात्मकत्वात्संसारस्येत्याह चित्तमेव हि संसारो, रागादिक्लेशदूषितम् / तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते // 4-66 // तत्प्रतिपक्षस्य मोक्षभावाभावे तस्यापि संसारत्वाभावप्रसङ्गात् / स चानिष्टः, तद्धेतुत्वेन रागादेस्तव्यपदेशभाक्त्वात्, तत्तद्धेतुत्वे चाविगानात्, यदाहुः- रागादयस्तु पाप्मानो भवभ्रमणकारणम् / न विवादोऽत्र कोऽप्यस्ति सर्वथा सर्वसम्मते - इति / अत एव पारमर्षम् - रागस्स दोसस्स य संखएण एगंतसोक्खं समुवेइ मोक्खं - इति (उत्तराध्ययने)। एतत्त्वत्रावधेयम् - यदि ह्यालयविज्ञानसन्तत्येकान्तवादाश्रयेण प्रकृततत्त्वमुरीक्रियते, तदान्वयिनमाधारभूतमात्मानं
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy