SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् || अध्यात्मदर्शना मत्त ऐरावतो बद्धः, सर्षपीकोणकोटरे / मशकेन कृतं युद्धं, सिंहोघेरणुकोटरे // 4-64 // पद्माक्षे स्थापितो मेरु-निर्गीणो भृङ्गसूनुना / निदाघ ! विद्धि तादृक्त्वं, जगदेतद् भ्रमात्मकम् // 4-65 // विचार्यमाणस्य जगतस्तन्मात्रपर्यवसानात्, अश्रद्धेयत्वाविशेषात्, उक्तवत् / एतदेव खलादेरश्रद्धेयत्वम्, यत्तद्दर्शितार्थविसंवादः, स चेज्जगत्यपि समः, तदा कथन्न तस्याप्यश्रद्धेयत्वमिति / विसंवदत्येव जगत्, प्रतिक्षणमपरापरपर्याययोगात्, अत एवार्षम् - विवरीओ य सहावो इमीए अणवट्ठियसहावो, इत्थ खलु सुही वि असुही, संतमसंतं, सुविणु व्व सव्वमालमालं ति - इति ( पञ्चसूत्रे), अन्यत्रापि - इन्द्रजालमिदं सर्वं यथा मरुमरीचिका - इति (अवधूतगीतायाम् ) / यथा हि सर्षपीकोणकोटरे मत्तस्तम्बेरमबन्धनवार्ता वाङ्मात्रमेव, यथावचस्तदर्थाभावात्, एवं जगद्गोचरं यत्किञ्चिदपि शुभाशुभमुच्यमानं वाङ्मात्रमेव, तदभिधानाभिधेयत्वेन विवक्षितस्यातीततयाऽभावात्, क्षणिकस्य क्षणोत्तरमनवस्थानात् / एवं वाङ्मात्रत्वस्योभयत्राविशेषाद् भ्रम एव तदुभयमपीति हृदयम् / इतश्च जगद् भ्रमः, उत्तरकालमभावात्, स्वप्नेन्द्रजालादिवत् / एतदेव स्वप्नादेस्तत्त्वम्, यदुत्तरकाले तदभवनम्,
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy