SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना A0000000000 तदधिगतेः परमगतेरनन्तरत्वात् / सर्वात्मकमिदं पदम्, त्रैलोक्यैकसारभूततया तद्व्यपदेशार्हत्वात् / अस्यैवावस्थान्तरस्य स्वरूपसौन्दर्यमाह उदितौदार्यसौन्दर्य-वैराग्यरसगर्भिणी / आनन्दस्यन्दिनी यैषा, समाधिरभिधीयते // 4-61 // उदितमौदार्यसौन्दर्यं यस्मिन् तद् - उदितौदार्यसौन्दर्यम्, कार्पण्यात्मकवैरूप्यापगमात्, एवंविधं यद् वैराग्यम् - स्वरूपस्नेहप्रयुक्तसमस्तसंसारगोचरनिःस्नेहभावः, तदेव रसः, परमपदप्रदतया सुवर्णसिद्ध्यादिरसवदद्भुतानुभावत्वात्, स गर्भे यस्याः सा - उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी, अत एवाऽऽनन्दस्यन्दिनी, अपगतकार्पण्यकष्टत्वान्निवृत्तपरप्रवृत्तिकत्वात् प्रवृत्तस्वरूपानुसन्धानत्वाच्च / यैषाऽवस्था, सा समाधिरभिधीयते, सम्यक्-सर्वविभावव्यावृत्ततया स्वभावमात्र उपयोगाधानलक्षणतल्लक्षणसमन्वयात् / तत्त्वमत्रत्यं विवेचितमस्माभिः समाधिसुधावृत्तौ सुधोपनिषदीति नात्र प्रतन्यते / नन्वनादिकालतः परद्रव्यप्रेमपाशबद्धस्य तद्वासनाविमोक्ष एव दुष्कर इति कथन्नामासौ तत्परिहारप्राप्यं समाधि प्राप्नुयादिति चेत् ? तत्स्वरूपपरिभावनसुलभेन तत्परिहारेणेति गृहाण / तदपि कथमिति चेत् ? अत्राह 333333333333333333
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy