SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना न हि द्वितीयनिबन्धनं द्वैतं तद्विगमेऽवतिष्ठतीत्युक्तकैवल्यमुपपन्नमेव / ननु चाहङ्कारस्यापि सम्भ्रमानुप्रवेशे तत्प्रतीतेमिथ्यारूपत्वसिद्धौ सर्वशून्यताऽऽपत्तिः, दृष्टरप्यभावप्रसङ्गात्, अतस्त्वं-जगच्चेत्येतावानेव सम्भ्रमोऽपनेयोऽस्त्विति चेत् ? न, तात्पर्यानवगमात्, अहमित्युल्लेखो ह्यापेक्षिकः, पित्राद्युल्लेखवत्, न हि पुत्राभावे पिता भवतीति / एवं त्वमित्यस्याभावेऽहमुल्लेखविरहोऽपि विज्ञेयः, आपेक्षिकत्वात्, कैवल्यसामग्ये तथाविधान्त ल्पलक्षणद्वितीयस्यायोगात् / अभावस्त्वहम्पदवाच्यस्य न भवति, तस्यैव कैवल्यगोचरत्वात्, स्वसंवेदनसिद्धत्वाच्च / इतश्चैतत्कैवल्यमित्याह चित्ताकाशं चिदाकाश-माकाशं च तृतीयकम् / द्वाभ्यां शून्यतरं विद्धि, चिदाकाशं महामुने ! // 4-58 // आकाशस्यावगाहगुणतया तत्र जीवपुद्गलादेरवगाढतयाऽशून्यता / चित्ताकाशस्य च तत्तत्सार्थनिरर्थकविकल्पविसरनिलयतयाऽशून्यता / अतः परमार्थशून्यता कैवल्यगोचरीभूतस्य चिदाकाशस्यैव, परिशुद्धतत्पर्याये विजातीयलेशस्याप्यसम्भवेन तद्राहित्यलक्षणशून्यतासामग्र्यादित्याशयः / अथाऽस्तु तत्, किन्तेनेत्यत्राह तस्मिन् निरस्तनिःशेषसङ्कल्पस्थितिमेषि चेत् / सर्वात्मकं पदं शान्तं, तदा प्राप्नोष्यसंशयः // 4-60 //
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy