________________ महोपनिषद् अध्यात्मदर्शना विनैषा मुक्तिः कदर्थना, संसारस्यावास्तवताप्रसक्तः, सन्तानस्यावास्तवतया बद्धस्य कस्यचिदेकस्याभावात्, एवं च मोक्षस्याप्यभावप्रसङ्गः, बन्धपूर्वकत्वात्तस्य, मुचि बन्धविश्लेष इत्युक्तेः / अथ वास्तव एव सन्तानोऽभ्युपेयत इति चेत् ? न, विकल्पानुपपत्तेः, सन्तानिभ्यः स भिन्नोऽभिन्नो वेत्युच्यताम्, यदि भिन्नः, न स तत्सन्तानः, तद्भिन्नत्वादेव / अथ चाभिन्नः, तदा तस्यापि तद्वत् क्षणिकत्वप्रसक्तेरपास्तमेव सन्तानत्वम्, अथाक्षणिकोऽसौ, तदाभिन्नत्वं प्लवते, दत्तश्च जलाञ्जलिः क्षणिकवादाय / एवं सर्वथाप्यनुपपन्न एव सन्तानः, अभिहितञ्च-संताणिणो न भिण्णो जइ संताणो, न नाम संताणो / अह भिण्णो ण क्खणिओ खणिओ वा जइ ण संताणो - इति (विशेषावश्यकभाष्ये)। ननु चानुपप्लवा चित्तसन्ततिरेव मुक्तिरित्यभ्युपेयत इति चेत् ? न, सन्ततेरवस्तुत्वेनासाध्यत्वात् / न च सन्ततिपतितक्षणानामेव पूर्वोत्तरभावेन हेतु-हेतुमद्भावात् तत्साध्यत्वम्, संसारानुच्छेदप्रसङ्गात्, सर्वज्ञज्ञानचरमक्षणस्यापि मुक्तज्ञानप्रथमक्षणत्वेन तत्सन्ततिपातित्वात् / अत्र बहु व्यक्तव्यम्, तत्तु नोच्यते, ग्रन्थविस्तरभयात् / रागादिदोषास्त्याज्या इति त्वत्र तात्पर्यम् / तत्रापि देहराग एवातिदुस्त्यजः, तत्राहङ्कारप्रवृत्तेरित्याह मनसा भाव्यमानो हि, देहतां याति देहकः / देहवासनया मुक्तो, देहधर्मैन लिप्यते // 4-67 // 57