________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬覆萬萬萬萬萬萬萬萬萬德 आत्मत्वेन देहसम्भावनैव देहान्तरपरिग्रहजननी, तन्मुक्तेश्च देहादिगोचराहङ्काराद्यपास्ते रागादिक्षयान्मुक्तिरिति भावः, उक्तञ्च - देहान्तरगतेर्बीजं देहेऽस्मिन्नात्मभावना | बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना - इति (समाधितन्त्रे)। किञ्च द्वे पदे बन्धमोक्षाय, निर्ममेति ममेति च / ममेति बध्यते जन्तु-निर्ममेति विमुच्यते // 4-72 // ममकारेण संसारः, दुःखानुबन्धित्वात् / समतया तु मोक्षः, सौख्यमूलत्वात्, अतो निःसङ्गतायामेव यतितव्यमिति भावः, उक्तञ्च - निःसङ्गतामेहि सदा तदात्मन् ! अर्थेष्वशेषेष्वपि साम्यभावात् / अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति // - इति (अध्यात्मकल्पद्रुमे ) / सुखमूलत्वमपि समताया व्यवहारतः, वस्तुतस्तु साम्यसिद्धिरेव सिद्धिरित्याशयेनाह अविशेषेण सर्वं तु, यः पश्यति चिदन्वयात् / स एव साक्षाद्विज्ञानी, स शिवः स हरिविधिः // 4-76 // ननु च कथन्नाम श्रोत्रियश्वपाकयोरविशेषदर्शनं सम्भवति, कथञ्च तत्साङ्गत्यमिति चेत् ? साम्यसमनुभावाच्चिदन्वयाच्चेति गृहाण, अत एवाभिहितम् - विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च पण्डिताः