________________ महोपनिषद् अध्यात्म दर्शना समदर्शिनः - इति (भगवद्गीतायाम् ) / युक्तञ्चैतत् परमार्थतस्तथादर्शनस्यैव प्राज्ञलक्षणत्वात्, यदाह - विषमेऽपि समेक्षी यः स ज्ञानी स च पण्डितः - इति (अध्यात्मसारे) / एतदेव समर्थयति - स एव साक्षाद्विज्ञानी, तदितरेषां शुकपाठमात्रपरायणानां तत्त्वतस्तदनतिशयित्वात्, साम्यात्मकतत्फलविरहात् / किञ्च सः - परमसाम्यपीयूषपानपरितृप्तः, शिवः, तद्भावसामग्र्ययोगित्वात्, वैषम्योपशमस्यैव सर्वाशिवात्यन्तिकोपशमरूपत्वात् / अपि च स एव हरिः, हरति स्वदर्शनदानमात्रेणापि पापानीतितन्निरुक्तिसमन्वितत्वात् / तथा स एव विधिः, विशुद्धब्रह्मरूपस्य तत्रैव घटमानत्वात् / ननु च विषयतृष्णादिकलुषितस्य विषमगोचरसमदर्शनमेव दुर्घटम्, अतस्तदर्थं कि कर्त्तव्यमिति चेत् ? सद्गुरुसमुपासनमिति गृहाण, तदनुग्रहस्य सर्वार्थसिद्धिनिबन्धनत्वात्, तद्वाहुः - गुरुदेवयाहिं जायइ अणुग्गहो अहिगयस्स तो सिद्धी - इति (योगशतके) / एतदेव साक्षादाचष्टे दुर्लभो विषयत्यागो, दुर्लभं तत्त्वदर्शनम् / दुर्लभा सहजावस्था, सद्गुरोः करुणां विना // 4-77 // सद्गुरोः - गुरुगुणगरिमोपेतस्य धर्मचार्यस्य, करुणां विना - तदुपासनाभिव्यङ्ग्यतद्गोचरबहुमानप्रकर्षरूपां तत्कृपामन्तरेण, विषयत्यागः - बाह्याभ्यन्तरगोचरपरिहारः, दुर्लभः - कष्टप्राप्यः, तात्त्विकस्य तत्त्यागस्य सज्ञान