________________ महोपनिषद् अध्यात्मदर्शना फलत्वात्, तस्य च गुरुपारतन्त्र्यात्मकतदुपासनप्रकर्षजीवनतद्बहुमानात्मकतत्कृपामात्रलभ्यत्वात्, अत एवाभिहितम् - गुरुपारतंतं नाणं - इति ( पञ्चाशके) / एवमेव तत्त्वदर्शनम् - यथार्थवस्तुस्वरूपालोकनम्, तदपि गुरुकृपामन्तरेण दुर्लभम्, तद्विकलस्य सम्यग्दर्शनविकलतया मिथ्यानिध्यानैककर्थितत्वात्, तत्कदर्थितस्य च वस्तुमात्रे भ्रमानिवर्तनात्, सदसदविवेचनादि-दोषदुष्टत्वात्तदवगमस्य, तथा चार्षम् - सयसयविसेसणाओ भवहेऊ जहिच्छिओवलंभाओ / नाणफलाभावाओ मिच्छद्दिट्ठिस्स अन्नाणं - इति (विशेषावश्यकभाष्ये)। अथ गुरुकृपावैकल्यमेव सम्यग्दर्शनाभावेऽप्रयोजकमस्त्विति चेत् ? न, जलाभावस्यापि सागराभावेऽप्रयोजकत्वप्रसङ्गात्, तदेकसर्वस्वत्वात् सदृष्टेः, अत एवाविरतसम्यग्दृशोऽपि गुरुवैयावृत्यनियमोऽभिहितः, गुरुबहुमानोल्लासस्य तत्पर्यवसाननियमात्, तदुक्तम् - सुस्सूस धम्मराओ गुरुदेवाण जहसमाहीए / वेयावच्चे णियमो सम्मद्दिट्ठिस्स लिंगाइं - इति - (योगशतके) / अत एव गुरुकृपां विना सहजावस्था - सर्वोपाधिशून्यविशुद्धात्मदशाऽपि दुर्लभा, तत्त्वदर्शनविरहस्य तत्प्रतिबन्धकत्वात् / / ननु सर्वोपाधिशून्यत्वस्य सिद्धावस्थायामेव सम्भवाद् भवस्थस्य सर्वस्यापि तदसम्भवाद् भवस्यैव तत्प्रतिबन्धकत्वं वक्तुमुचितम्, न तु गुरुकृपाऽभावस्येति चेत् ? न, व्यवहारतस्तस्य मोक्ष एव सम्भवेऽपि निश्चयत इहापि तदसम्भवा