SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ का महोपनिषद् अध्यात्मदर्शना भावात्, दृष्टतत्त्वानां सतामप्युपाधीनामसत्कल्पत्वात्, फलाभावात् / यदा हि देहाद्युपाधेरौपाधिकानां ममकारादिविभावानां प्रसूतिरेव न, तदा विफलतयाऽसनेव स स उपाधिः, अर्थक्रियाकारित्वलक्षणतल्लक्षणातिक्रमादिति भावनीयम् / वस्तुतस्तु प्रसादितगुरोस्तत्त्वदर्शनसम्प्राप्तसाक्षिस्वभावस्येहापि मुक्तत्वालङ्कृततया सिद्धावस्थैवेति न किञ्चिदनुपपन्नम्, यथोक्तम् - आत्मशुद्धोपयोगेन साक्षीभूतो मनस्यपि / अक्रियः सर्वकर्ताऽपि मुक्तः स बन्धनेष्वपि - इति (अध्यात्मगीतायाम्) / एवञ्च सर्वार्थसिद्धिः गुर्वनुग्रहादिति सिद्धम्, तदुक्तम् - गुरुप्रसादात् सर्वं तु प्राप्नोति न संशयः - इति (स्कन्दपुराणे ) / तस्मात् सद्गुरुकृपापात्रस्य उत्पन्नशक्तिबोधस्य, त्यक्तनिःशेषकर्मणः / योगिनः सहजावस्था, स्वयमेवोपजायते // 4-78 // उत्पन्नशक्तिबोधस्य - अद्याप्यनाविर्भूतशुद्धात्मस्वरूपात्मकान्तर्गतलब्धिगोचरोद्भूतावगमस्य, अत एव त्यक्तनिःशेषकर्मणः - तदाविर्भावप्रतिबन्धककृत्स्नमनोवाक्कायप्रवृत्तिपरित्यागवतः, स्वयमेव - अभियोगान्तरमन्तरेणैव, योगिनः - प्रतिबन्धकाभावयोगविधौ विहिताभियोगस्य, सहजावस्था - स्वरूपसंलयसौख्याद्वैतरसैकरसीभूताऽऽत्मदशा, उपजायते - प्रकटीभवत्येव, आवरणापगमस्याऽऽवृताविर्भावानर्थान्तरत्वात् / ततोऽपि
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy