________________ महोपनिषद् | अध्यात्मदर्शना सर्वगं सच्चिदानन्दं, ज्ञानचक्षुर्निरीक्षते / अज्ञानचक्षुर्नेक्षेत, भास्वन्तं भानुमन्धवत् // 4-80 // ज्ञानचक्षुः- साम्यसुधाञ्जनवितिमिरविमलबोधैकविलोचनः, सर्वगम् - अनवगम्याभावात्कृत्स्नयायिनम्, सच्चिदानन्दम् - सज्ञानप्रमोदात्मकमात्मस्वरूपम्, निरीक्षते - निपुणं निभालयति / ननु मुख्यवृत्त्या सर्वगाम्येवाऽऽत्मा, विभुत्वेन तस्य विश्वव्याप्तत्वात्, अतोऽवगममधिकृत्य तत्सङ्गमनमयुक्तमिति चेत् ? न, उपनिषत्कृताऽपि सच्चिदानन्दस्य विशेषणत्वेनैव सर्वगत्वस्योक्तत्वात् / तत्र केवलज्ञानस्यागम्यत्वविरहात्सञ्ज्ञानस्य सर्वगामिता, सर्वद्रव्यपर्यायविषयीकरणात्, सर्वद्रव्यपर्यायेषु केवलस्य - इति वचनात् / एवमानन्दस्यापि सर्वगत्वम्, ज्ञानचक्षुषो यत्किञ्चिदालम्बनस्यापि तत्त्वेन परिणमनात्, सुखस्य विरागमूलत्वात्, तत्त्वदर्शनस्य च तत्फलत्वात्, तथा च पारमर्षम् - दिटेहिं णिव्वेयं गच्छेज्जा - इति / युक्तञ्चैतत्, परमार्थतो जगति तद्वस्तुन एवाभावात्, यत् पीडालम्बनत्वेन गृहीतुं योग्यं स्यान्महात्मनामिति, उक्तञ्च - दुःखं दुष्कृतसङ्क्षयाय महतां, क्षान्त्यै पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा / सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, सम्पद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? इति /