SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना अवश्यमेतदेवमेष्टव्यम्, आत्मविभुत्ववादेऽसंसारत्वादिबहुदोषानुषङ्गात्, सर्वगतस्य परलोकगमनरूपमुख्यसंसारपदार्थानुपपत्तेः, कल्पितता तु तस्य स्यात्, सा चानुभवादिविरुद्धतयाऽनिष्टा / अपि चैवं सर्वोऽपि मोक्षोपदेशो वितथस्स्यात्, संसारस्यावास्तवतया तस्य हेयोपादेयकोट्यतीतत्वात् / तदिदमभिहितम् - विभुत्वेन च संसार: कल्पितः स्यादसंशयम् - इति (अध्यात्मसारे)। उक्तप्रतिपक्षमाह - अज्ञानेत्यादि / न ह्यन्धेनानीक्षणाद् भानोरभावः, एवं नाज्ञानोपहतान्तश्चक्षुषाऽनवलोकनात्सर्वगतसच्चिदानन्दस्य विरहः, परमार्थतस्तदात्मन्यपि तदभावाभावादिति भावनीयम् / चक्षुरेवैतत् संस्तुवन्नाह प्रज्ञानमेव तद् ब्रह्म, सत्यप्रज्ञानलक्षणम् / एवं ब्रह्मपरिज्ञाना-देव मर्योऽमृतो भवेत् // 4-81 // तत् - चक्षुरुपमयाऽनन्तरमुद्गीतमाहात्म्यम्, प्रज्ञानमेव - अशेषकालुष्यपरिहारेण प्रकर्षकाष्ठागतं ज्ञानमेव, ब्रह्म - आत्मस्वरूपम्, भूतवैधोपलब्धेः, तदुक्तम् - वैधयं यत्र तद् भिन्नं, पृथिव्या गगनं यथा / ज्ञस्वभावोऽज्ञकात्तस्माद् भिन्नोऽस्मि पुद्गलादहम् - इति (शमोपनिषदि)। एतदेवावधारयति हेतुगर्भविशेषणात् - सत्यप्रज्ञानलक्षणम् - इति,
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy