________________ महोपनिषद् म अध्यात्मदर्शना अहम्, इदम्, मम - इति / स प्रत्ययः जाग्रत्स्थितिः / अस्य प्राक्तनभूमिकायामभावः, अस्याञ्चोद्भवः / अयमेव पुष्टिमुपयातस्तृतीयभूमिकायामवतरतीत्याह अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः / पीवरः प्रत्ययः प्रोक्तो, महाजाग्रदिति स्फुटम् // 5-13 // अयमित्याद्युल्लेखः स्वरूपव्यतिरिक्तवस्तुगोचरो विज्ञेयः, अन्यथाऽस्या अज्ञानक्षितित्वक्षतेः, समाध्यनुप्रवेशेन ज्ञानोर्वरात्वयोगात् / जन्मान्तरोदितत्वोक्ताविदं तात्पर्यम् - अनादिभवाभ्यासस्वभ्यस्तो ह्ययं परव्यतिकरविषयो विकल्पविसर इति / एतत्त्वत्र चिन्त्यम् - जातमात्रस्याद्यभूमिर्बालस्य, ततोऽप्युक्तप्रत्ययोदयतो द्वितीयभूमिकायोगः, तदनन्तरं च जन्मान्तरसंस्कारप्रबोधवशात्तत्पीवरत्वयोगतो तृतीयावतारः, इतिप्रक्रियायां गर्भस्थस्यापि शिशोस्तत्तच्छुभाशुभाध्यवसायतः स्वर्गनरकादिगमनमागमोदितं न सङ्गच्छेत्, न चाप्रमाणमेव तत्प्रतिपादक आगमः, अत इष्टैव नस्तदसङ्गतिरिति वाच्यम्, तादृशशिशोरध्यवसायशून्यत्वे भारताधुदिताया अभिमन्युचक्रव्यूहाधीत्या अप्यसङ्गतत्वापत्तेः / न च गर्भस्थस्याप्याद्यसमयमधिकृत्याद्यभूमिका सङ्गमनीयेति वाच्यम्, वस्तुतो भवद्वयान्तरालेऽप्यनादिसंसारवासनानुभावेन तद्विकारविमुक्तिविरहात्, तद्भावे च मुक्तप्रत्यागतिप्रसक्तिध्रौव्यमपि च प्रागुक्तमभिसन्धेयमिति दिक् / तुर्यामाह