________________ महोपनिषद् बीजजाग्रदादिनामा सप्तविधो मोहः, एष एव मिथो मिश्रभावमापन्नोऽनेकाग्र्यं विक्षेप इति यावत्, ... जाग्रदाद्यभिधानाभिहितस्य मोहस्यैव, लक्षणं शृणु प्रथमं चेतनं यत्स्या-दनाख्यं निर्मलं चितः / भविष्यच्चित्तबीजादि-नामशब्दार्थभाजनम् // 5-10 // नामादिविकल्पशून्यं भावितत्पात्रं त्वाद्यम्, एतदसत्कल्पनया शिष्यबोधार्थमुदितं सम्भाव्यते, सर्वथा नामादिशून्यस्य तत्सम्भवे मुक्तस्यापि तदापत्तेः / अपि चानादिरेव जीवकर्मसंयोगः, अतस्तज्जविभावस्याप्यनादित्वमभ्युपेयम् / एवञ्च वस्तुसत्या एतद्भूमिकाया अभावः प्रत्येयः / उपसंहृत्यापरामाह बीजरूपस्थितं जाग्रद्, बीजजाग्रत्तदुच्यते / एषाऽज्ञप्तेर्नवावस्था, त्वं जाग्रत्संस्थितिं शृणु // 5-11 // नवप्रसूतस्य परा-दयं चाहमिदं मम / इति यः प्रत्ययः स्वस्थ-स्तज्जाग्रत्प्रागभावनात् // 5-12 // यदा ह्यज्ञानस्याभिनवा प्रसूतिः प्रागुक्तासत्कल्पनया भवति, तदा प्रवर्त्तन्ते चित्तविकाराः, तेषु चालम्बनानि-अयम्, occeeeeeeeeeeeeeee