SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना विषयानुगतो भवत्युपयोगः, तदा स्वरूपसम्भ्रंशः, यदा तु स्वानुगत एव सः, तदा स्वरूपस्थितिः, उपयोगानवस्थित्यभावे परिशेषनीत्या तन्मात्रसिद्धेः / तदत्रावस्थान्तरे जाग्रदादिदशाविरहो मुक्तत्वात्, अभिहितञ्च - न जागति न निद्राति नोन्मीलति न मीलति / अहो परदशा काऽपि वर्तते मुक्तचेतसः - इति (अष्टावक्रगीतायाम् ) / एवञ्च ___ अहन्तांशे क्षते शान्तेऽभेदनिष्पन्दचित्तता / अजडा या प्रचलति, तत्स्वरूपमितीरितम् // 5-7 // यदा ह्यहमित्येतन्मात्रोल्लेखविग्रहोऽपि सङ्कल्पो नोदेति चित्तभित्तौ, तदान्येषां तु रागादिविलसितानां कथैव केति चिदद्वैतैकनिश्चलमनस्कता वस्तुतो स्वभावप्रतिष्ठैवेति भावः / अथ यत्प्रागुक्तं सप्तविधाऽज्ञानभूरिति, तदेव निरूपयति बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च / जाग्रत्स्वप्जस्तथा स्वप्नः, स्वप्नजाग्रत्सुषुप्तिकम् // 5-8 // इति सप्तविधो मोहः, पुनरेष परस्परम् / श्लिष्टो भवत्यनेकाग्र्यं, शृणु लक्षणमस्य तु // 5-9 //
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy