SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अरूढमथवा रूढं, सर्वथा तन्मयात्मकम् / यज्जाग्रतो मनोराज्यं, यज्जाग्रत्स्वप्न उच्यते // 5-14 // तथा चायमादेरेवात्यन्तं पीवरः प्रत्ययस्तत्तत्परद्रव्यमाश्रित्य प्रवृत्तस्तुर्यभूमिका / राज्यत्वव्यपदेशोऽत्र प्रासादादिपृथ्वीपर्यन्तवस्तुव्यूहस्य तदुदरप्रविष्टत्वसाधर्म्यात्, अपरथा तु विनाश एवायं विज्ञेयः, तद्धेतुत्वात्, एवमेवाज्ञानभूत्वोपपत्तेश्च / अपि च कल्पिततयाऽप्येषाऽज्ञानभूमिका, मनोराज्यत्वादेवेत्याह द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः / अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् // 5-15 // यथैव तथाभ्यासयोगतस्तिमिरोपहतदृशो द्विचन्द्रदर्शनम्, आदित्यकरस्पृष्टदूरवर्तिशुक्तौ रजतप्रतिभासः, मृगतृष्णाम्भसि चाम्भोविभ्रमो मृगशावस्य, एवं भूमिकायामस्यां सर्वस्यापि प्रत्ययस्य तथात्वमवगम्यम्, क्षाराम्भोमिश्रितं हि नालिकेराम्भोऽपि तद्भावमेवोपयातीति / ननु च यदि जाग्रत्, तदा कथं स्वप्नः, अथ च स्वप्नः, कथं जाग्रदिति व्याहतमिदमिति चेत् ? न, स्वप्नोपमत्वेन | तद्व्यपदेशोचितत्वात्, अर्थविसंवादस्य तदौपम्यबीजस्य च दर्शितत्वात् / अथ पञ्चमी
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy