________________ महोपनिषद् अध्यात्मदर्शना अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि / परामर्शः प्रबुद्धस्य, स स्वप्न इति कथ्यते // 5-16 // निद्रायां हि मया स्तोककालं यावद् निभालितममुकं वस्तु - इति यत्र प्रबुद्धस्यापि परामर्शो नोदेति, स स्वप्न इत्युच्यते / एतदिह तात्पर्यम् - सचेतस्कस्य हि प्रतिबुद्धदशोदये-यन्मया दृष्टं तन्न तथा, अपि तु स्वप्नः, अत एव वितथम् - इत्युदेति बोधः / उक्ताज्ञानभूस्थस्य तु प्रतिबोधानन्तरमपि स्वप्नदशावत्तितैव, तद्वितथत्वाप्रतिभासनात् / यस्य हि गुरुवचःप्रभृतिना ज्ञापितभवनैर्गुण्यस्यापि तदास्था नापगच्छति, तस्यैतत्पृथ्वीवत्तितेति ज्ञायते / षष्ठी सप्तमी चाह - चिरं सन्दर्शनाभावादप्रफुल्लं बृहद्वचः / चिरकालानुवृत्तिस्तु, स्वप्नो जाग्रदिवोदितः // 5-17 // स्वप्नजाग्रदिति प्रोक्तं, जाग्रत्यपि परिस्फुरत् / षडवस्था परित्यागो, जडा जीवस्य या स्थितिः // 5-18 // भविष्यदुःखबोधाढ्या, सौषुप्तिः सोच्यते गतिः / जगत्तस्यामवस्थाया - मन्तस्तमसि लीयते // 5-19 // FFFFFFFFFFFFFFFFE