________________ महोपनिषद् अध्यात्मदर्शना यदल्पकालानुभूतमप्यल्पवचसा वर्णयितुमशक्यम्, दृढवासनाधानयुक्ततया चिरकालानुवृत्तिश्च, एवं जाग्रदिवोदितः स्वप्नः स्वप्नजाग्रत् / परिकल्पयति हि चिरतरं कालं यावद् दृढपापवासनो भवाभिनन्दी जीवोऽल्पकालमप्यासेवितं वृजिनम्, स्तोककालमनुभूतोऽन्यतरविपर्यासो वा / एवञ्च परमार्थतोऽस्य तत्स्मृत्यनुगतः समस्तोऽपि कालो वृजिनकाल एव, विपर्यासकाल एव वा, एवञ्च नासौ प्रतिबुद्धः, अपि तु तत्स्वप्न एव जागर्त्यद्यापीति स्वप्नजाग्रत् / जागरदशायामेव / स्वप्नायत एवैतद्भूमिस्थित इति हृदयम् / यस्यां तूक्त-षडवस्थानामप्यभावः, निबिडाज्ञानावरणावृततयाऽजीवप्राया च स्थितिर्जीवस्य, भवति च यस्यामेष्यत्कष्टप्रतिभानं सा चरमा सुषुप्तिभूः / / अथ निबिडाज्ञानभावे भविष्यद्दुःखबोधलक्षणमतिशयि ज्ञानमेव न घटाकोटिमाटीकते, तद्भावे च निबिडाज्ञानम्, इति चेत् ? सत्यम्, अत एव नैतदवध्याद्यतिशयि ज्ञानम्, अपि तु मा भून्ममेषदपि कष्टमिति देहमू प्रसूतं दुःखकल्पनाकलुषितं साध्वससातत्यमेव, वस्तुतो भयस्याप्यज्ञानप्रकारत्वात्, ज्ञानिनस्तद्भावात्, उक्तञ्च - न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् / क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः - इति (ज्ञानसारे) / तस्यामवस्थायाम् - सुषुप्तिलक्षणायाम्, जगत् - अभिन्नग्रन्थिमिथ्यादृष्टिसत्त्वसमूहात्मकं विश्वम्, अन्तस्तमसि - भावान्धकारे निबिडतमाज्ञान इति यावत्, लीयते - तथादीर्घभवस्थिति-कर्मगौरवादिनिबन्धनेन निमज्जति, तथाविधनिबन्धनस्य तत्पर्यवसाननियमात् / उपसंहरति