SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना सप्तावस्था इमाः प्रोक्ता, मयाऽज्ञानस्य वै द्विज ! / एकैका शतसङ्ख्याऽत्र, नानाविभवरूपिणी // 5-20 // विभवोऽज्ञानस्य, न त्वात्मनः, तथात्वे त्वासां ज्ञानभूत्वप्रसङ्गात्, तद्वित्तत्वादात्मनः / शतसङ्ख्या इत्यपि स्थूलभेदत एव, अन्यथा प्रागुक्तरीत्याऽसङ्ख्यप्रकारा आसामवगन्तव्याः / त एव तन्त्रान्तरेषु व्यपदेशान्तरेण निर्दिष्टाः, परमार्थतस्तु सर्वमपि तदेकमेव, सर्वस्यापि तस्याज्ञानरूपताऽनतिक्रमादिति ध्येयम् / सेयमवेद्यसंवेद्यपददशा सर्वानर्थजननी स्वप्नेऽपि परिहार्या मुमुक्षुभिः, उक्तञ्च - अवेद्यसंवेद्यपदं विपरीतमतो मतम् / भवाभिनन्दिविषयं समारोपसमाकुलम् / / एतद्वन्तोऽत एवेह विपर्यासपरा नराः / हिताहितविवेकान्धाः, खिद्यन्ते साम्प्रतक्षिणः / / जन्ममृत्युजराव्याधि - रोगशोकाद्युपद्रुतम् / वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः / कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यवत्सदा / दुःखे सुखधियाकृष्टाः, कच्छूकण्डूयकादिवत् // यथा कण्डूयनेष्वेषां, धीर्न कच्छूनिवर्तने / भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये / / आत्मानं पांसयन्त्येते सदाऽसच्चेष्टया भृशम् / पापधूल्या जडा: कार्यमविचार्यैव तत्त्वतः // धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु / न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः / बडिशामिषवत्तुच्छे कुसुखे दारुणोदये / सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः // अवेद्यसंवेद्यपद-मान्ध्यं दुर्गतिपातकृत् / सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः - इति (योगदृष्टिसमुच्चये)। 00004080021 JAN INDIA
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy