________________ महोपनिषद् अध्यात्म दर्शना 000000000000000000 अन्यत्र तु तमःप्रभृत्यभिधानेनाभिहिताऽज्ञानभूमिका, यथा - तमो मोहो महामोहस्तामिस्रोऽन्ध एव च / विपर्ययो हि जीवानामतो भ्रान्तिर्भवार्णवे // श्रेयःप्रवृत्तिकामस्य तदन्यत्र प्रवर्त्तनम् / सिद्धान्तानादराद् ह्येतत् तम आहुर्मनीषिणः // देहादिष्वात्मबुद्धिर्या मुक्तिमार्गोपरोधिनी / तत्राभिष्वङ्गभावेन सा मोह इति कीर्त्यते // बाह्येषु तु ममत्वं यद् देहभावेऽप्यभाविषु / केवलं भावसंसिद्ध्यै महामोहस्तदाहितम् / / भाव्याभाव्येषु सर्वेषु नियमेन तथा तथा / भवन् स्वात्मापकाराय क्रोधस्तामिस्र उच्यते // संसारे मरणं जन्तोनियमेन व्यवस्थितम् / तत् प्रतीत्य भयं ह्यन्धतामिस्र: परिकीर्तितः / एवं विपर्ययादस्मादतत्त्वे तत्त्वबुद्धितः / कुकृत्येष्वपि मूढानां बहुमानः प्रवर्तते - इति (ब्रह्मप्रकरणे)। उक्ताऽज्ञानभूः, अथेतरामाह इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ! / नानया ज्ञातया भूयो, मोहपङ्के निमज्जति // 5-21 // भावनाज्ञानतया परिणतस्यैतद्वोधादित्यस्याशेषमोहपङ्कशोषकत्वात् / अपि च वदन्ति बहुभेदेन, वादिनो योगभूमिकाः / मम त्वभिमता नून-मिमा एव शुभप्रदाः // 5-22 //