________________ महोपनिषद् अध्यात्मदर्शना सकलकल्याणनिबन्धनत्वेन वक्ष्यमाणा सप्त योगभूमय एव मम तत्त्वेनेष्टा इत्याशयः / किञ्च अवबोधं विदुर्ज्ञानं, तदिदं साप्तभूमिकम् / मुक्तिस्तु ज्ञेयमित्युक्ता, भूमिकासप्तकात्परम् // 5-23 // यथैव तैलधारा तैलरूपैव भवति, तदव्यतिरिक्तत्वात्तस्याः, एवमियमपि ज्ञानभूमिका ज्ञानरूपैव, तद्भिन्नतद्विरहात् / मुक्तिस्तु कथञ्चित् ज्ञेयरूपा, तत्स्वरूपस्यावगमनीयत्वात् / न हि ज्ञानमन्तरेण ज्ञेयावबोधः, अतस्तदनन्तरं तदुक्तिरित्यभिप्रायः / अथ प्रथमं सप्तज्ञानभूमिकानामभिधेयान्युपन्यस्यति ज्ञानभूमिः शुभेच्छाख्या, प्रथमा समुदाहृता / विचारणा द्वितीया तु, तृतीया तनुमानसी // 5-24 // सत्त्वापत्तिश्चतुर्थी स्यात्, ततोऽसंसक्तिनामिका / पदार्थाभावना षष्ठी, सप्तमी तुर्यगा स्मृता // 5-25 // आसामन्तःस्थिता मुक्ति-र्यस्यां भूयो न शोचति / एतासां भूमिकानां त्व-मिदं निर्वचनं शृणु // 5-26 //