________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬3 एतदन्तःस्थितत्वं मोक्षस्य तात्त्विकस्य ज्ञानस्यावश्यं दर्शनचारित्रसहितत्वात्, रत्नत्रयस्य च भावमोक्षरूपत्वात्, अन्वाह - द्रव्यमोक्षः क्षयः कर्मद्रव्याणां नात्मलक्षणम् / भावमोक्षस्तु तद्धेतु-रात्मा रत्नत्रयान्वयी // ज्ञानदर्शनचारित्रैरात्मैक्यं लभते यदा / कर्माणि कुपितानीव भवन्त्याशु तदा पृथक् / / अतो रत्नत्रयं मोक्षः- इति (अध्यात्मसारे)। निर्वचनप्रतिज्ञामेव निर्वाहयन्नाद्यलक्षणमाह स्थितः किं मूढ एवास्मि ? प्रेक्ष्येऽहं शास्त्रसज्जनैः / वैराग्यपूर्वमिच्छेति, शुभेच्छेत्युच्यते बुधैः // 5-27 // शुभेच्छा विरागगर्भोऽभिलाषः / स च विराग एवं निर्वेदपूर्णः सम्भवति-यथा कथन्नामैतावन्तं कालं यावन्मम मोहाधीनतयैवावस्थितिः ? न मम तथाकर्मलाघवाद्युपेतस्यावाप्तधर्मसामग्रीकस्याप्येतन्मौढ्यं गर्त्ताशूकरवद्भोगजम्बालैकनिमग्नताप्रयोजकं न्याय्यमिति / एवञ्चैषा ज्ञानभूमिः स्वौचित्यविचारालङ्कृता भवति, यथोक्तम् - को मम कालो किमेयस्य उचियं - इति (पञ्चसूत्रे ) / प्राप्तधर्मसामग्रीमेव परिभावयति - प्रेक्ष्य इत्यादि / सिद्धान्तोपनिषद्वित्सद्गुरुकृपाकटाक्षावलोकिततया धन्योऽहम्, सफलीकार्यं मया मद्धन्यत्वं मोहविदारणेनेति हृदयम् / द्वितीयामाह