________________ महोपनिषद अध्यात्मदर्शना तदितरस्यैतत्कथने प्रत्युताविद्यावृद्ध्यापत्तेः / एषैव गुरोः प्राज्ञता यत्स्थानदेशकत्वम्, दारुणविपाकत्वादितरस्य, तदाह - यद् भाषितं मुनीन्द्रैः पापं खलु देशना परस्थाने / उन्मार्गनयनमेवं भवग्रहणे दारुणविपाकम् / / हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् / सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति // - इति (षोडशके)। सर्वोऽप्ययं योगमार्गो विरागैकमलोऽतस्तमेवोत्पादयन्नाह न जायते न म्रियते, क्वचित्किञ्चित्कदाचन / परमार्थेन विप्रेन्द्र !, मिथ्या सर्वं तु दृश्यते // 5-165 // लक्ष्यमाणानां जन्मादीनां परमार्थत आविर्भावादिमात्रत्वात्तन्मिथ्यात्वं प्रत्येयम् / तथा च तत्तत्पर्यायप्रादुर्भावतिरोभावावेव सञ्जायेते, असदुत्पादेतरविनाशासम्भवात्, यदुक्तम् - णासओ विज्जए भावो, णाभावो विज्जए सओ - इति / अत आविर्भावतिरोभावमात्रपर्यवसितयोर्जन्ममरणयोहर्षाद्यनुभवनं मौढ्यम् / न हि कश्चिदबालो रत्नतिरोभावमात्रेण शोचते, तत्प्रादुर्भावमात्रेण वा प्रमोदमुपयाति, तत्सत्ताविशेषविरहात् / एवं मनुष्यादितत्तत्पर्यायप्रादुर्भावादावप्यात्मसत्ताऽविशेष एवेति तत्र हर्षादिकरणमयुक्तम् / समानैव घटनाऽऽविर्भावत्वादिना गृहीता सती, जन्मत्वादिनोपलब्धा तु मिथ्येत्यत्र निष्कर्षः / तस्मात् 105