SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् | अध्यात्मदर्शना कोशमाशाभुजङ्गानां, संसाराडम्बरं त्यज / असदेतदिति ज्ञात्वा, मातभावं निवेशय // 5-166 // जन्माद्येवेदमिति मिथ्यामतिकर्थितो हि जीवस्तत्तत्तृष्णोरगीदंशव्यथामतिषहते / तत्त्वेन गृहीतः सर्वोऽप्ययं भवोपप्लवोऽसत्, उपकल्पिततत्स्वरूपस्य वस्तुतोऽभावाद्वन्ध्यासुतोपमत्वात् / एवमवगम्य मातृभावम् - सर्वभवोपप्लवोपसंहारप्रयोजकतया मुक्तस्वभावप्रादुर्भावैकप्रसूपमं माध्यस्थ्यभावम्, निवेशय - आत्मनि परिणमय, तत एव दृश्यमानोत्पादादिषु परमौदासीन्याधिगमेन जीवन्मुक्तिसिद्धेः / अपि च गन्धर्वनगरस्यार्थे, भूषितेऽभूषिते तथा / अविद्यांशे सुतादौ वा, कः क्रमः सुखदुःखयोः ? // 5-167 // न हि नगरगन्धर्वनगरयोः सुतवन्ध्यासुतयोश्च कश्चिद्विशेषः विपश्चितः / प्रागुक्तनीत्या तदसत्त्वस्योभयत्र समानत्वात् / एवञ्च यथा गगनडम्बरमात्रविग्रहस्य गन्धर्वनगरस्य विभूषादिविषये सुखादि न भवति सचेतसः, परमार्थतत्स्वरूपसंवेदनात् / तथा नगरस्य भूषादावपि, उक्तहेतोः / यथा च वन्ध्यापुत्रमाश्रित्य जन्मादिविकल्पोऽपि न भवति, तथा स्वपुत्रं प्रतीत्यापि, स्वसम्बध्यङ्गस्यैवाभावेऽङ्गजानुत्थानात् / एवं सति पर्यायावेव नगरं गन्धर्वनगरमिति / स्वपुत्रो वन्ध्यापुत्र इति CECEGreeeeeeeeeeeeeee 106
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy