________________ महोपनिषद अध्यात्मदर्शना च / तन्नास्था भवति विदुषोऽन्यतरेऽपि, उक्तञ्च - गन्धर्वनगरादीनामम्बरे डम्बरो यथा / तथा संयोगजः सर्वो विलासो वितथाकृतिः - इति (अध्यात्मसारे) / ततश्च धनदारेषु वृद्धेषु, दुःखयुक्तं न तुष्टता / वृद्धायां मोहमायायां, कः समाश्वासवानिह ? // 5-168 // व्यवहारतः कथञ्चित् सदपि धनादि वृद्ध सदात्ममौढ्यवृद्ध्यर्थमेव भवतीति विदानस्य विदस्तदृद्धावपि का तुष्टिः ? आत्महानिमेवोत्पश्यतो नास्य तुष्टिरुदेतीत्याशयः, तदाह - यथा शोफस्य पुष्टत्वं यथा वा वध्यमण्डनम् / तथा जानन् भवोन्माद-मात्मतृप्तो भवेन्मुनिः - इति (ज्ञानसारे) / इत्थञ्च / यैरेव जायते रागो, मूर्खस्याधिकतां गतैः / तैरेव भागैः प्राज्ञस्य, विराग उपजायते // 5-169 // तेषु शोफादिसादृश्यदर्शित्वात्तस्येत्याशयः / एवमानुषङ्गिकमभिधाय पुनरपि प्रक्रान्ताय सङ्कल्पविलयायैवोपदेष्टि भावनाभावमात्रेण, सङ्कल्पः क्षीयते स्वयम् / सङ्कल्पेनैव सङ्कल्पं, मनसैव मनो मुने ! // 5-183 // FEFFFFFFFFFFFFFFFFER 107