________________ महोपनिषद् अध्यात्मदर्शना छित्त्वा स्वात्मनि तिष्ठ त्वं, किमेतावति दुष्करम् / यथैवेदं नभः शून्यं, जगच्छून्यं तथैव हि // 5-184 // स्वरूपानुसन्धानमात्रसाध्यस्य तवात्यन्तमनुपयोगितया फल्गुत्वेनासत्प्रायत्वात् / एतदेव नभसः शून्यत्वं यद्घटादिवज्जलसन्धारणादिप्रयोजनेष्वनुपयोगित्वम्, तच्चेदात्मप्रयोजनमाश्रित्य घटादिपदार्थसार्थात्मके जगत्यपि समानम्, तदा तुल्यन्यायात्तस्यापि शून्यत्वं दुरपह्नवमेव / स एष ऋजुसूत्रनयाभिप्रेतः पन्थाः, यत्र परकीयमात्रस्यासत्त्वम्, अनुपयोगित्वादेव / इतोऽपि जगतः शून्यत्वम्, स्वप्नाद्युपमत्वेनास्य प्रागुपपादितत्वात्, तच्छून्यत्वे चाऽविगानात् / तदेतत्तत्त्वसंवेदनसम्पन्नस्य यदा विश्वाम्बरयोरविशेष एव, तदा परमौदासीन्यमेवावशिष्यते, रागादिनिबन्धनविरहात् / सेयं भवजलधिनौः प्रशान्तवाहिता परमानन्दस्यन्दिनी जीवन्मुक्त्यनुभूतिपदवी, यस्यै स्पृह्यन्ति देवेन्द्रा अपि, यां प्राप्य च कृतकृत्यो भवति योगी, अभिहितञ्च - यत्पदं प्रेप्सवो दीनाः, शक्राद्याः सर्वदेवताः / अहो तत्र स्थितो योगी न हर्षमुपगच्छति - इति (अष्टावक्रगीतायाम् ) / अथैवं तत्त्वसंवेदनमात्रेणाभिमतसिद्धिसम्भवे विफलमेव सर्वमपि क्रियानुष्ठानम्, परिणामियं पमाणं (ओघनिर्युक्तौ) - इत्याद्यागमसंवादोपलम्भाच्च, किञ्च परैरपि-ज्ञानान्मुक्तिः (साङ्ख्यसूत्रे) - इति प्रतिपन्नम्, अतः क्रियाक्लेशमपहाय 108