SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना रसाश्च ते - इति (वशिष्ठस्मृतौ)। तदत्र गुरुदोषो गुरोरेव पात्रापात्रेऽविवेचयतः, अतो हि स्वपरमहानर्थ इति त्याज्यस्सः, यदाह - उवएसोऽविसयम्मि विसए वि अणीइसो अणुवएसो / बंधणिमित्तं णियमा जहोइओ पुण भवे जोगो // गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ / जोगिगुणहीलणा णट्ठणासणा धम्मलाघवओ - इति (योगशतके)। न च पश्चादपि तदेव देयमित्यादावेव तद् दीयताम्, एवमेव शीघ्रं साध्यसिद्धेरिति वाच्यम्, निर्बलचक्रिभोजननीत्या प्रत्यपायावहत्वात्, न हि कासारतरणाशक्तः केनचित्सागरे क्षिप्यते कृपालुना, तद्भावक्षतिप्रसङ्गात्, एवं व्यवहारानभिज्ञस्य निश्चयोपदेशः पापमेवेति ध्येयम्, तथा चोक्तम् - गुह्याद् गुह्यतरं तत्त्व-मेतत्सूक्ष्मनयाश्रितम् / न देयं स्वल्पबुद्धीनां ते ह्येतस्य विडम्बकाः // जनानामल्पबुद्धीनां नैतत्तत्वं हितावहम् / निर्बलानां क्षुधा नां भोजनं चक्रिणो यथा / ज्ञानांशदुर्विदग्धस्य तत्त्वमेतदनर्थकृत् / अशुद्धमन्त्रपाठस्य फणिरत्नग्रहो यथा / / व्यवहाराविनिष्णातो यो जीप्सति विनिश्चयम् / कासारतरणाशक्तः सागरं स तितीर्षति - इति / यत एवम्, अतः - व्यवहारं विनिश्चित्य, ततः शुद्धनयाश्रितः / आत्मज्ञानरतो भूत्वा परमं साम्यमाश्रयेत् - इति (अध्यात्मसारे) / तस्मात् प्रबुद्धबुद्धेः प्रक्षीण-भोगेच्छस्य निराशिषः / नास्त्यविद्यामलमिति, प्राज्ञस्तूपदिशेद् गुरुः // 5-106 // 104
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy