________________ महोपनिषद् अध्यात्मदर्शना सर्वसङ्कल्परहिता, सर्वसञ्ज्ञाविवर्जिता / सैषा चिदविनाशात्मा, स्वात्मेत्यादिकृताभिधा // 5-100 // सङ्कल्पादयो हि विचार्यमाणाः पुद्गलपरिणामाः, मनस एव तद्रूपत्वात् / अतस्तत्परिणतस्यात्मनोऽपि कथञ्चिज्जडत्वोपगमादनात्मता, अतस्तद्विवर्जिततत्स्वरूपस्यैवात्मतेति तात्पर्यम् / अत्रोक्तो निश्चयनयाभिप्रायो ब्रह्माद्वैतादिविचारश्चात्यन्तपक्वबोधायैव शिष्याय वाच्यः, अनीदृशस्यातोऽनर्थप्रसूतेरित्याह आदौ शमदमप्रायै-र्गुणैः शिष्यं विशोधयेत् / पश्चात्सर्वमिदं ब्रह्म, शुद्धस्त्वमिति बोधयेत् // 5-104 // अज्ञस्यार्धप्रबुद्धस्य, सर्वं ब्रह्मेति यो वदेत् / महानरकजालेषु, स तेन विनियोजितः // 5-105 // सम्यक् तत्तात्पर्यपरिणतियोग्यताविरहेण व्यवहारनिश्चयो भयभ्रष्टस्य तस्य तादृशगतेरेवावशेषात् / अत एव सिद्धान्तरहस्यविडम्बनाऽपि बोध्या, तथा च पारमर्षम् - आमे घडे णिहित्तं जह जलं तं घडं विणासेइ / इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ - इति / अन्यत्रापि - आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु / विनश्येत् पात्रदौर्बल्यात् तच्च पात्रं 103