SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना तदुच्छेदस्यैव वस्तुतो मोक्षरूपत्वात्, उक्तञ्च -वासनाप्रक्षयो मोक्षः- इति (विवेकचूडामणौ)। एतदेव व्यक्तमप्याह भोगेच्छामात्रको बन्ध-स्तत्त्यागो मोक्ष उच्यते / मनसोऽभ्युदयो नाशो, मनोनाशो महोदयः // 5-97 // तद्धेतुभावात् / मनसोऽभ्युदयो हि सार्थेतरतत्तत्सङ्कल्पविकल्पप्राज्यसाम्राज्यम्, तच्च स्वरूपस्थितिप्रच्यावकतयाऽऽत्मविनाश एव, कथञ्चित्तद्विच्युतेरेवात्ममृत्यूपमत्वात्, अत एव वदन्ति-जीवो जीवति न प्राणै-विना तैरेव जीवति / इदं चित्रं चरित्रं के, हन्त ! पर्यनुयुञ्जताम् - इति (अध्यात्मसारे)। तथा चेन्द्रियादिद्रव्यप्राणवियुता ज्ञानादिभावप्राणमात्रकृतानुसन्धानैवात्मदशा परमार्थतस्तज्जीवनम्, अविशुद्धतद्गोचरतद्व्यपदेशानौचित्यात्, असंव्यवहार्यत्वात् / अयम्भावः - यथा हि पङ्काद्यत्यन्तमलिनं पानीयं तद्व्यपदेशानहम्, पानस्नानादिव्यवहारानुपयोगितया वस्तुतस्तत्पानीयत्वस्यैवाभावात्, एवं सङ्कल्पविकल्पादिकलुषिततया स्वरूपभ्रंशविडम्बनाविकृतमात्मस्वरूपमपि निश्चयतोऽनात्मरूपम्, भावप्राणविकलत्वात्, उक्तञ्च - अजीवा जन्मिनः शुद्ध - भावप्राणव्यपेक्षया / सिद्धाश्च निर्मलज्ञाना द्रव्यप्राणव्यपेक्षया - इति (अध्यात्मसारे)। एवञ्च सङ्कल्पविनाश एव स्वरूपसाम्राज्यस्फातिरिति सूक्तम् - मनसोऽभ्युदयो नाशो मनोनाशो महोदयः - इति / सङ्कल्पयुतस्तु नैवात्मपदाभिधेय इत्यवधारयति ccccceeeeeEEEEEEEEEEE
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy