________________ महोपनिषद् अध्यात्मदर्शना 臺灣酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱達 चित्तमालिन्यमपनयति नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः // 3-27 // पावित्र्यादिगुणगणविकलत्वात्, अमेध्यतमत्वाच्च / अपि च कलेवरमहङ्कार-गृहस्थस्य महागृहम् / लुठत्वभ्येतु वा स्थैर्य, किमनेन गुरो ! मम ? // 3-28 // देह एवाहङ्कारस्य रिपोः परमाश्रयः, प्रथमतस्तदालम्बनेनैव तत्प्रवृत्तेः, अतोऽसौ तिष्ठति वा नश्यतु वा किं मम छिन्नम्, रिपुगृहविनाशस्याभीष्टत्वात्, अतो न तत्स्थितौ मम प्रमोदः, नापि तदुपप्लवे मत्खेदलेशोऽपीति हृदयम् / इतोऽप्येतद्गृहव्यावृत्तरागोऽहमित्याह पङ्क्तिबद्धेन्द्रियपशु, वल्गत्तृष्णागृहाङ्गणम् / चित्तभृत्यजनाकीर्णं, नेष्टं देहगृहं मम // 3-29 // विश्वविश्ववर्तिविपद्विसरहेतूनां देहस्यैवाश्रयभूततयैष ममानिष्ट इत्याशयः / अपि च 26