________________ महोपनिषद् अध्यात्म दर्शना 0 0000 जिह्वामार्कटिकाऽऽक्रान्त-वदनद्वारभीषणम् / दृष्टदन्तास्थिशकलं, नेष्टं देहगृहं मम // 3-30 // स्वरूपापर्यालोचननिबन्धनो हि रागस्तत्पर्यालोचने निवर्तत एव नियोगतः, प्रतिपक्षनाश्यत्वस्वाभाव्याद्दोषाणामिति पुनरपि देहपर्यालोचनमेव विधत्ते - रक्तमांसमयस्यास्य, सबाह्याभ्यन्तरे मुने ! / नाशैकधर्मिणो ब्रूहि, कैव कायस्य रम्यता ? // 3-31 // यदि ह्यस्यापि रम्यतेष्यते, तदाऽरम्यताया बीभत्सतायाश्च शब्दकोषमात्राश्रयत्वप्रसक्तेन सशूकस्यात्र तत्परिकल्पनोचितेत्याशयः / नश्वरतामेव देहस्य स्पष्टयति तडित्सु शरदभ्रेषु, गन्धर्वनगरेषु च / स्थैर्य येन विनिर्णीतं, स विश्वसितु विग्रहे // 3-32 // ननु च परिचञ्चलत्वात्तेषु स्थैर्यलेशोऽपि न भवत्येवेति चेत् ? एवं विशरारुत्वैकस्वभावस्य शरीरस्यापि न भवत्येव स्थिरतालवोऽपीति गृहाण अथ तत्तत्पर्यायनैर्गुण्योपदर्शनेन देहाऽऽस्थामपास्यति 10000000 27