________________ महोपनिषद् अध्यात्मदर्शना कोऽहं कथमिदं चेति, संसारमलमाततम् / प्रविचार्य प्रयत्नेन, प्राज्ञेन सह साधुना // 4-21 // असाधुसहितस्य तत्त्वचिन्ताया अप्यतत्त्वपर्यवसानात् / एतत्प्रविचारानन्तरमपि यत् कर्त्तव्यं तदाह नाकर्मसु नियोक्तव्यं, नानार्येण सहावसेत् / द्रष्टव्यः सर्वसंहर्ता, न मृत्युरवहेलया // 4-22 // नाकर्मसु नियोक्तव्यम्, तन्नियोगस्य सर्वापत्संयोगानतिरेकात्, एतदर्थमपि नानार्येण सहावसेत्, संसर्गजत्वाद् गुणदोषाणाम्, जीवस्य भावुकद्रव्यत्वात्, उक्तञ्च - भावुगदव्वं जीवो संसग्गीए गुणं च दोसं च पावइ - इति (पुष्पमालायाम् ) / सर्वसंहर्ता - चराचराखिलविश्वसंहारकर्ता, मृत्युरवहेलया न दृष्टव्यः, तदवज्ञायास्तदानन्त्यहेतुत्वात्, अत एवोच्यते - गृहीत इव केशेन मृत्युना धर्ममाचरेत् - इति / ननु च शूर एवावगणयति मृत्युम्, तृणं शूरस्य जीवितम् (चाणक्यनीतौ)- इत्युक्तेः, कातर एव बिभेत्यतः, तत्कि योगिना कातरेण भवितव्यमिति चेत् ? ओमित्युच्यते, तद्भयस्यैव तात्त्विकस्य तद्विमुक्तिनिदानत्वात्, तथा चागमः - माराभिसंकी मरणा पमुच्चइ - इति (आचाराड़े)। नन्वेवं मरणान्तोपसर्गागणना योगिनो नोपपद्यतेति चेत् ? न, |