________________ महोपनिषद् | अध्यात्मदर्शना तदेकरसीभूतस्वरूपतया तदनतिरेकात्, किमुक्तं भवति ? हे सौम्य ! सततं साधुवृत्तयः, परमसाम्यस्य तन्मात्रपर्यवसानात् / हिंसाद्यसाधुवृत्तयो हि वैषम्ये सत्येव सम्भवन्ति, सव्वभूयप्पभूयस्स सम्मं भूयाइं पासओ (दशवैकालिके) - इत्यागमोदितदशाधिगतौ परमसाम्यपरिणतेहिंसाविचारस्याप्यसम्भवात्, अहिंसामग्र्ये चासत्याद्यनवकाशात् / अत एव अब्धिवद् धृतमर्यादा, भवन्ति विशदाशयाः / नियतिं न विमुञ्चन्ति, महान्तो भास्करा इव // 4-20 // विशदाशयाः - तुमं सि णाम स च्चेव जं हंतव्वं ति मण्णसि (आचाराले) इत्यागमावगमतः स्पष्टाभिप्रायाः, अब्धिवद् धृतमर्यादा भवन्ति, मर्यादातिक्रमस्याशयावैशद्यहेतुकत्वात्, यो हि तत्तद्धिसादिकर्मत्वेनात्मानमेवाभिवीक्षते, स कथन्नाम तत्र प्रवर्तेत ? मन्दस्यापि प्रायस्तथाप्रवृत्त्यभावात् / अतो महान्तः - विश्वविश्वसत्त्वसमूहप्रतियोगिकाभेदाश्रयभूतात्मदर्शितयाऽक्षुद्रान्त:करणाः, भास्करा इव नियतिं न मुञ्चन्ति, उदयास्तोभयावस्थयोर्नियतस्वस्वरूपावस्थितेरपरिहारात् / सर्वाऽपीयं समाधिसाम्यसिद्धावस्था तत्त्वाधिगमप्रसूता, सोऽपि तज्जिज्ञासायोनिरिति तदर्थमेवोत्साहयति 60060000oCCEEEEEEEEE 12