SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना 魯魯灣漫漫漫萬萬萬萬萬萬萬萬萬萬萬萬 अभिप्रायापरिज्ञानात्, तदगणनाया अप्यनन्तमरणभीतिप्रसूतत्वात्, उपसर्गशतसन्निपातेऽप्यविचलितप्रकृतिभावस्य तद्भीतिसुलभत्वात्, अत एवागमे मुमुक्षुलक्षणम् - भीया जम्मणमरणाणं - इति / नास्तिकस्तु प्रत्यक्षमीक्ष्यमाणमपि मृत्युमवगणयन् तत्तत्कर्मसु प्रवर्तते, यैः पुनः पुनर्मरणगोचरतामुपयाति, अतस्तदवगणना प्रतिषिद्धा / कर्त्तव्यान्तरमाह शरीरमस्थि मांसं च, त्यक्त्वा रक्ताद्यशोभनम् / भूतमुक्तावलितन्तुं, चिन्मात्रमवलोकयेत् // 4-23 // सर्वसत्त्वानुप्रोतचैतन्यसूत्रावलोकनेन हि निष्ठामेति शत्रुमित्रकथा, ततोऽपि प्रतिष्ठामेति परमसमतेति तदुपदेशः / तस्या एवोपायान्तरमाह उपादेयानुपतनं, हेयैकान्तविसर्जनम् / यदेतन्मनसो रूपं, तद्बाह्यं विद्धि नेतरत् // 4-24 // न ह्यान्तरमनसि हेयोपादेयाध्यवसायो भवति, भावमनस आत्मपरिणामरूपत्वात्, तच्छुद्धस्वरूपस्य माध्यस्थ्यैकविग्रहत्वात् / एवञ्च यद् बाह्यम्, तन्न स्वरूपम्, घटादिवत् / अतः स्वरूपमात्रानुसन्धानप्राप्यपरमसौख्यलिप्सुना सर्वपरद्रव्याद् व्यावृत्त्य माध्यस्थ्यमास्थेयम् / एतदपि स्वरूपचिन्तनेन शक्यमित्याह 44
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy