________________ महोपनिषद् अध्यात्मदर्शना न ह्यनुभूतिरेवेष्टार्थसाधिका, जीवमात्रसाधारणत्वात्सर्वेष्टसिद्धिप्रसक्तेः, तददर्शनाच्च / अपि तु शास्त्रगुर्वभिप्रायाविरुद्धाऽनुभूतिः / अन्यथा तु ग्रहिलादेः कुक्कुरादेश्चापि भवत्येव काचिदनुभूतिरिति भावनीयम् / एवञ्च यथा तत्रयेऽविगानयोगेन मिथो विशेषलेशस्यापि विरहस्स्यात्तदा सम्भवत्यात्मसाक्षात्कारः, सामग्रीसाध्यत्वात्तस्य / ननु च शास्त्रं गुरुश्चेति पृथग्रहणेन तद्वयस्याभिप्रायभेदसम्भवोऽनिष्ट आपद्येतेति चेत् ? न, तात्पर्यानवगमात्, शास्त्रपदेन हि शिष्याधीतं श्रुतज्ञानमत्राभिप्रेतम्, तच्च तदैव सम्यक्तामवतरेत्, यदा गुरोस्तेनैकवाक्यता स्यात्, एवं स्वानुभूतेरपि वाच्यम्, तस्या अपि प्रायः श्रुतज्ञानप्रभवत्वात्, तस्य च गुर्वधीनत्वात्, अभिहितञ्च - गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि / तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् - इति (प्रशमरतौ) / युक्तं चैतत्, सर्वस्यापि योगमार्गस्य तदधीनत्वात्, अत एवोच्यते - जुत्ताजुत्तवियारो गुरुआणाए ण जुज्जए काउं / दइवाओ मंगुलं पुण जं हुज्जा तं पि कल्लाणं - इति / किञ्चैतदभ्यासत एवोन्मनीभाववशीकारोऽपि, तदनुभावतः सङ्कल्पादिपरिहारसिद्धेस्तत्सम्भवादित्याह सङ्कल्पाशानुसन्धान-वर्जनं चेत् प्रतिक्षणम् / करोषि तदचित्तत्वं, प्राप्त एवासि पावनम् // 4-6 // TECECECEFFFFFFFFFFFFFEE