SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना 獨獨當當葛葛萬萬萬萬萬萬萬萬萬萬 सङ्कल्पाशारूपं हि चित्तम्, अतस्तदभावे तद्विरहो न्यायोपपन्न एव / तत्पावनत्वं च परमपदप्रयोजकत्वात्, तदाह - यस्य सङ्कल्पनाशस्स्यात्, तस्य मुक्तिः करे स्थिता - इति ( मण्डलब्राह्मणोपनिषदि) / अपि च - चेतसो यदकर्तृत्वं, तत् समाधानमीरितम् / ___ तदेव केवलीभावं, सा शुभा निर्वृतिः परा // 4-7 // भावाभावगोचरचित्तप्रवृत्तेरेवाकुलतानिदानत्वेन तन्निवृत्तौ समाधेरेवावशेषात्, उक्तञ्च - भावस्य भावको कश्चिन्, न किञ्चिद्-भावकोऽपरः / उभयाभावकः कश्चि-देवमेव निराकुलः // - इति (अष्टावक्रगीतायाम् ) / कैवल्यमप्यत एव, चित्तविनाशे हृषीकाणामपि स्वत एव विपत्तेस्तटादर्शिशकुन्तपोतप्रत्यागमनवदात्मन आत्मन्येवानुप्रवेशतो द्वैतविगमात्, उक्तञ्च - चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि हि / क्षीणस्नेहस्य दीपस्य संरक्ता रश्मयो यथा-इति (वाल्मिकिरामायणे)। अत एव सा प्रशस्ता निर्वृतिः, भोगाद्युपजनितरतेरप्रशस्तत्वात्, परा च सा, सर्वोपरमस्यैव सुखप्रकर्षोपनिषद्रूपत्वात्, तत्प्रायत्वाच्च चित्तोपरमस्य, अस्मात् चेतसा सम्परित्यज्य, सर्वभावात्मभावनाम् / यथा तिष्ठसि तिष्ठ त्वं, मूकान्धबधिरोपमः // 4-8 //
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy