SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् | अध्यात्मदर्शना 0000000 बाह्यनिमित्तशतैरपि चालयितुमत्यन्तमशक्यतया विनिश्चलो भव, एतत्स्थैर्यस्यैव समस्तसंसरणसमाप्तिस्वरूपतया त्वत्परमाभीष्टसिद्धिरूपत्वात् / वीप्साऽवधारणार्थम् / मध्य एव स्थिरो भव, समन्तात्सम्भ्रमणस्य भवबम्भ्रमणैकनिदानत्वेन स्वप्नेऽपि परिहार्यत्वात् / उक्तसम्भ्रमणादेवातो विरागमुत्पादयति तमेव भुक्तिविरसं, व्यापारौघं पुनः पुनः / दिवसे दिवसे कुर्वन्, प्राज्ञः कस्मान्न लज्जते ? // 6-76 // भुक्तिविरसम् - विडम्बनामात्रस्वरूपभोगक्रियारूपत्वेन तत्त्वतः सुखरसलेशविहीनम्, तमेव व्यापारौघम् - पशुक्रियाकदम्बकम्, एवकारेण नव्यत्वलवस्यापि व्यवच्छेदः, आजीवनमपि पुनरावर्तनैकगोचरत्वाद् भोगानां सुरैरपि तेष्वभिनवाऽनवाप्तेः, एतदेवाह - पुनः पुनर्दिवसे दिवसे कुर्वन् - मदनवीरेण प्रसह्य प्रेरिततया विदधन्, प्राज्ञः - अशुचिष्वङ्गनाऽङ्गेषु सङ्गताः पश्य रागिणः / वीक्षमाणा निरीक्ष्यन्ते लोलन्तः कृमयो यथा - इत्यादिवस्तुस्थित्यभिज्ञोऽपि, कस्मान्न लज्जते? शूकरकुक्कुरादिपशुयोग्यक्रियाप्रवृत्तस्यापि प्राज्ञस्य लज्जाऽननुभवो महच्चित्रम्, तत्क्रियादर्शनस्यापि प्राज्ञानां त्रपावहत्वादित्याशयः / यद्वा भुक्तिविरसमिति भुक्तौ सत्यां विरसम्, पर्यवसानोद्वेजकमित्यर्थः, यथोदितम् - निकषे विषया बीभत्स-करुण 000000000
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy