SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् || अध्यात्मदर्शना न रसायनपानेन, न लक्ष्यालिङ्गितेन च / न तथा सुखमाप्नोति, शमेनान्तर्यथा जनः // 4-31 // प्रशमस्यैव परमार्थतो रसायनादिरूपत्वात्, अशान्तस्य रसायनादेरपि दु:खहेतुत्वान्यथाऽनुपपत्तेः / कथं तर्हि प्रशमाधिगमः ? किं वा प्रशान्तलक्षणमित्यत्राह श्रुत्वा स्पृष्ट्वा च भुक्त्वा च, दृष्ट्वा ज्ञात्वा शुभाशुभम् / न हृष्यति ग्लायति यः, स शान्त इति कथ्यते // 4-32 // न चैवं निःसञत्वप्रसक्तिरिति वाच्यम्, कथञ्चिदिष्टत्वात्, तत्प्रायत्वात् शान्तस्य, यदाह - उन्मनीकरणं तद्यद् मुनेः शमरसे लयः - इति (योगसारे) / अत एव तुषारकरबिम्बाच्छं, मनो यस्य निराकुलम् / मरणोत्सवयुद्धेषु, स शान्त इति कथ्यते // 4-33 // मरणे निराकुलत्वम्, आत्मप्रदेशमात्रस्यापि हानेरनुपलम्भात् / उत्सवेऽपि तत्, तद्वद्ध्यदर्शनात् / द्वन्द्वेऽपि, स्वद्वन्द्वाभावविनिश्चयात् / पर्यवसिता शान्तिः / अपि च
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy