SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना रौद्रध्याननिदानत्वाच्च / तदितरा तु तितिक्षाभूततया शिवयोनित्वेनाऽऽदृतव्या / एवञ्चोक्तरीत्याऽग्न्यादिषु हिमभावादिदर्शनमग्न्यादितत्तत्पर्यायावज्ञैवेति निपुणमालोचनीयम्, तत्त्वेन तद्गणनायां तितिक्षानुपपत्तेः / / सत्तितिक्षाभ्यासतो हि सम्यग् देहादिभिन्नस्वस्वरूपसंवेदनम् / ततोऽपि सर्वसङ्क्लेशसक्षोभापगमात् स्तिमितोदधिवच्चित्तस्य प्रशान्तिः / ततोऽपि यद् भवति तदाह यानि दुःखानि या तृष्णा, दुःसहा ये दुराधयः / शान्तचेतःसु तत्सर्वं, तमोऽर्केष्विव नश्यति // 4-29 // परमार्थतश्चित्तानुपशमस्यैव दुःखादिरूपत्वात् / अतः प्रशमलाभायैव प्रेरयति मातरीव परं यान्ति, विषमाणि मृदूनि च / विश्वासमिह भूतानि, सर्वाणि शमशालिनि // 4-30 // अतः शमसन्धारणेनान्दनीयाः सत्त्वाः, अपरथा आनन्दावाप्त्ययोगात्, तथा च नीतिः - नादत्तं लभ्यते क्वचित् - इति / अपि च स्वतोऽप्यानन्दस्रोतः प्रशम इत्याह -
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy