SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना तपस्विषु बहुज्ञेषु, याजकेषु नृपेषु च / बलवत्सु गुणाढ्येषु, शमवानेव राजते // 4-34 // शमविकलतप:प्रभृतेः प्रत्युत चपास्पदतया शोभासवितृत्वायोगात् / किञ्च सन्तोषामृतपानेन, ये शान्तास्तृप्तिमागताः / आत्मारामा महात्मानस्ते महापदमागताः // 4-35 // सन्तोषोऽमृतम्, इहैव सिद्धिसुखार्पणात्, तद्वितरिता तृप्तिर्हि पारमार्थिका, तृष्णाऽत्यन्तोच्छेदकत्वात् / एवञ्चेहैव महापदमिति न किञ्चिदनुपपन्नम्, उक्तञ्च - सुहाइं संतोससाराई - इति / सन्तोष एव तर्हि कथ्यतामित्यत्राह अप्राप्तं हि परित्यज्य, सम्प्राप्ते समतां गतः / / अदृष्टखेदाखेदो यः, सन्तुष्ट इति कथ्यते // 4-36 // न चाप्राप्तस्य परिहार इति व्याहतमिति वाच्यम्, तन्मू परिहार एव तात्पर्यभावात, बाह्यस्य परमार्थप्राप्तेरेवासम्भवात्, उक्तञ्च - मज्झ परिग्गहो जदि, तोऽहमजीवत्तं तु गच्छेज्ज / णादेव अहं जम्हा, तम्हा ण परिग्गहो मज्झ - इति (समयसारे)। उत्तरं तर्हि व्याहन्यत इति चेत् ? न, नित्यसम्प्राप्तज्ञानादिगुणगणस्याधिकृतत्वात् / यद्वा लोक
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy