SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्म दर्शना व्यवहारमनुसृत्य यथालब्धाहारादौ रागादिवैषम्यपरिहारेण समवृत्तिरित्यर्थः / अत एव अदृष्टखेदाखेदः, सम्यगुक्ततत्त्वादर्शिन एव तद्दर्शनयोगात्, प्राप्तव्याभावपश्यको ह्यसौ, कथन्नामास्य खेदः? तद्भावदर्शनस्य तन्मूलत्वात् / प्राप्तव्यदर्शनेन हि खिद्यत आत्मा तदवाप्त्यभियोगेन, तद्वैफल्येऽधिकतरं चानुभवति खेदमिति / नन्वेवमखेददर्शनमस्यानुपपन्नं स्यादिति चेत् ? न, अखेदस्य खेदपूर्वकत्वात्, अस्य च तदभावात् / यथा हि स्वर्गे रात्र्यभावाद्दिनाभावो भवति, नित्यप्रकाशत्वात्, एवं नित्यानन्दमुदितस्यास्य खेदाखेदविरह: प्रत्येयः / सेयं देवेन्द्रादीनामपि स्पृहणीयदशा सन्तोषपदाभिहितेत्याह - स सन्तुष्ट इति कथ्यते - इति / एतदेव प्रकारान्तरेणाह - नाभिनन्दत्यसम्प्राप्तं, प्राप्तं भक्ते यथेप्सितम / यः स सौम्यसमाचारः, सन्तुष्ट इति कथ्यते // 4-37 // प्राप्तव्यदर्शनप्रयुक्ततत्प्राप्त्यभियोगो हि चण्डताजीवनम्, तद्विरहे तदभावात्, अतस्तददर्शिनः सौम्यसमाचारतैव स्यात्, प्रतिबन्धकविगमादित्याशयः / इत्थञ्च
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy