________________ महोपनिषद् अध्यात्मदर्शना रमते धीर्यथाप्राप्ते, साध्वीवान्तःपुराजिरे / सा जीवन्मुक्ततोदेति, स्वरूपानन्ददायिनी // 4-38 // यथाप्राप्तं ह्यमृतसोदरम् / तत्तदभियोगयाचितं तु पानीयप्रतिमम् / आच्छिन्नं तु शोणितानतिशायि / अतो यथाप्राप्तैरेव निर्वाह: कार्यः, एवमेव रागादिनिग्रहक्रमेण वीतरागतोदयाज्जीवन्मुक्तिप्रादुर्भावादिति भावः / एतदुपलक्षणादन्यदपि यल्लक्षितव्यम्, यच्च तत्फलम्, तदाह यथाक्षणं यथाशास्त्रं, यथादेशं यथासुखम् / यथासम्भवसत्सङ्ग-मिमं मोक्षपथक्रमम् // तावद्विचारयेत् प्राज्ञो, यावद्विश्रान्तिमात्मनि // 4-39 // तुर्यविश्रान्तियुक्तस्य, निवृत्तस्य भवार्णवात् / जीवतोऽजीवतश्चैव, गृहस्थस्याथवा यतेः // 4-40 // नाकृतेन कृतेनार्थो, न श्रुतिस्मृतिविभ्रमैः / निर्मन्दरः इवाम्भोधिः, स तिष्ठति यथास्थितः // 4-41 // TECREEEEEEEEEEEE