________________ महोपनिषद् | अध्यात्म दर्शना Daaaaaa00000000000000 ये शुद्धवासना भूयो, न जन्मानर्थभागिनः / ज्ञातज्ञेयास्त उच्यन्ते, जीवन्मुक्ता महाधियः // 2-40 // शुद्धवासना हि कण्टकन्यायेनाशुद्धवासनामपनीय स्वयमप्यपगच्छन्ती मुक्तिहेतुतां प्रतिपद्यते / अतस्तद्वन्त आसन्नमुक्तितया जीवन्मुक्तत्वेन व्यपदिश्यन्ते / ते च ज्ञातज्ञेयाः, वासनाशुद्धौ यथार्थपदार्थस्वरूपस्य स्वयमेव स्फुटीभवनात्, अत एव महाधियः, प्रज्ञोदरोरीकृतमहत्तत्त्वत्वात् / न हि प्रतिपक्षावगममन्तरेण स्पष्टावगमः प्रस्तुतस्येतिनीतिमनुसरन् बन्धलक्षणप्रतिपादनपुरस्सरं मोक्षं लक्षयति पदार्थभावनादायँ, बन्ध इत्यभिधीयते / वासनातानवं ब्रह्मन्, मोक्ष इत्यभिधीयते // 2-41 // पदार्थभावना - मदीया रमणीया वैत इति स्वरूपातिरिक्तवस्तुगोचरा वासना, तस्या दाढ्यम् - अतत्तत्संवेदनलक्षणमिथ्यात्वेन गाढत्वापादनम्, तदेव बन्ध इत्यभिधीयते, हेतौ फलोपचारात् / हे ब्रह्मन् ! - शुद्धात्मस्वरूपाभिन्नसत्ताशाली, वासनातानवम् - उक्तभावनाशैथिल्यप्रयुक्ततद्दभ्रता, तदेव मोक्ष इत्यभिधीयते, तद्धेतुभावात् / न च पूर्वेण व्याहतमिदमिति वाच्यम्, अभिप्रायापरिज्ञानात्, न हि वासनैवात्र मोक्षत्वेन व्यपदिश्यते, अपि तु तत्तानवम्,