________________ महोपनिषद् अध्यात्मदर्शना 40000000000000000 त्याज्यत्वादिगोचरा भावनाऽपि तदैवोदेति, यदा पदार्थसत्तामात्रभावनाऽस्य मनसि स्यात्, सा च नास्त्येव स्वरूपानुसन्धानमात्राक्षणिकचित्तस्य, यदुक्तम् - ब्रुवन्नपि हि न ब्रुते, गच्छन्नपि न गच्छति / स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति - इति (इष्टोपदेशे) / अतोऽस्य तद्भावनाभावोऽवगम्यः / एतत्षटकाभ्यासफललक्षणां सप्तमीमाह - भूमिषट्कचिराभ्यासाद्, भेदस्यानुपलम्भनात् / यत्स्वभावैकनिष्ठत्वं, सा ज्ञेया तुर्यगा गतिः // 5-34 // चिराभ्यासात्, प्रभूतभवान्तराणि यावत्तत्तत्प्रवृत्तिपरिशीलनेनात्मभावनात्, तात्त्विकस्याभ्यासस्य प्रायः स्तोककालासाध्यत्वात्, तदाहुः - अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः - इति (षोडशके ) / ततः किमित्याह - भेदस्य - सुखनिमित्तानां दुःखनिमित्तानां च विशेषस्य, अनुपलम्भात् - एगो मे सासओ अप्पा नाणदंसणसंजुओ। सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा - (आतुरप्रत्याख्याने) इत्यागमावगमेनावेदनात्, द्वयेऽपि बाह्यत्वसाधाद् भेदाभावात्, यत् स्वभावैकनिष्ठत्वम् - परमतत्त्वात्मकात्मतत्त्वैकप्रतिष्ठितता, सा तुर्यगा गतिर्जेया, निद्रा-तन्द्राजागरलक्षणत्रितयातीतलक्षणत्वात्तस्याः /