________________ महोपनिषद् अध्यात्मदर्शना 000000000000 भावनीयम् / उक्तपञ्चकपरिशीलनफलात्मिकां षष्ठीमाह भूमिकापञ्चकाभ्यासात्, स्वात्मारामतया दृढम् / आभ्यन्तराणां बाह्यानां, पदार्थानामभावनात् // 5-32 // परप्रयुक्तेन चिरं, प्रयत्नेनावबोधनम् / पदार्थाभावना नाम, षष्ठी भवति भमिका // 5-33 // निःसङ्गता ह्यात्मरामणीयकरमणतादायिनीत्येतद्भूमिकावतारः / अत्र हि समुपेक्षासमनुभावाद्विषयध्यानविरहः, | ततश्चासम्भव एव सङ्ग-काम-क्रोधाद्यनर्थानाम्, तन्मूलत्वात्तेषाम्, अभिहितञ्च-ध्यायतो विषयान् पुंसः, सङ्गस्तेषूपजायते / सङ्गात्सञ्जायते कामः, कामात्क्रोधोऽभिजायते / / क्रोधाद् भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः / स्मृतिनाशाद् | बुद्धिनाशो बुद्धिनाशात्प्रणश्यति - इति (भगवद्गीतायाम् ) / अथोपस्थितानां पदार्थानामप्यभावनेत्येव दुःश्रद्धेयमिति चेत् ? सत्यम्, तथापि सम्भवतीदमपि प्रोक्तभूमिकापञ्चकस्वभ्यासशालिनां धीरधियां तद्भावानुभावादेव, वस्तुत आत्मरमणावाप्यमानपरमानन्दापेक्षया विषयप्रवृत्तेस्तेषामतितुच्छतयाऽसत्प्रायत्वेन प्रतिभासनाच्च, अत एवोक्तम् - स्वभावादेव जानाति दृश्यमेतन्न किञ्चन / इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ? - इति (अष्टावक्रगीतायाम्) / अपि च