________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬看着鲁鲁兽得得得得得得 विडम्बनैव / एतदेव विधान्तरेण व्याचष्टे दैन्यदोषमयी दीर्घा, वर्धते वार्धके स्पृहा / सर्वापदामेकसखी, हदि दाहप्रदायिनी // 3-36 // एवञ्च विडम्बनाशतविद्रुते वार्धक्ये स्पृहाभिवृद्धिर्दुष्कालेऽधिकमासकल्पेति भावः, उक्तञ्च - किमथ परमदुःखं सस्पृहत्वं यदेतत् - इति (सुभाषितरत्नसन्दोहे) / ननु चैवं यदि बालादिदशात्रयेऽपि दुःखमात्रमेव स्यात्, तदा कस्यचित् al कदापि सुखानुभूतिर्न सङ्गतिमुपेयात्, भवति तु सा, तत् किमत्र तत्त्वमिति चेत् ? अत्राह क्वचिद्वा विद्यते यैषा, संसारे सुखभावना / आयुः स्तम्बमिवासाद्य, कालस्तामपि कृन्तति // 3-37 // क्वचिदनुभूयमानमपि सुखं भावनामात्रम्, तत्त्वतस्तदभावात्, उक्तञ्च - वासनामात्रमेवैतत् सुखं दुःखं च देहिनाम् / तथा ह्युद्वेजयन्त्येते भोगा रोगा इवापदि - इति (इष्टोपदेशे)। अथ तेनाप्यस्माकं सन्तुष्टिर्वासनामात्रेणेत्यत्राह - आयुरित्यादि, तथा च तस्या अपि विकरालकालकवलीभावगमनस्वाभाव्यान्न तदास्थाऽपि युक्ता सचेतसः, गत्वररागस्य शोकैक-पर्यवसानात्, अत एवागमः - भेउरेसु ण रज्जेज्जा - इति (आचाराने) / अथ कोऽयं कालो वराकोऽस्मत्पुरत