SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना मा तच्चाचेत्या चिदेवेति तन्मोक्षरूपत्वे न किञ्चिदनुपपन्नम्, उक्तञ्च - यावद् यावद् मुनिश्रेष्ठ ! स्वयं सन्त्यज्यतेऽखिलम् / तावत् तावत् परालोकः परमात्मैव शिष्यते / / यावत् सर्वं न सन्त्यक्तं तावदात्मा न लभ्यते / सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते // आत्मावलोकनार्थं तु तस्मात् सर्वं परित्यजेत् / सर्वं सन्त्यज्य दूरेण यच्छिष्टं तन्मयो भव - इति (अन्नपूर्णोपनिषदि) / तस्मात् एतन्निश्चयमादाय, विलोकय धियेद्धया / स्वयमेवात्मनाऽऽत्मान -मानन्दं पदमाप्स्यसि // 6-78 // उक्तविलोकनमात्रेणैव परमानन्दनिजस्वरूपप्रादुर्भावध्रौव्यात् / कृतिरियं जैनाचार्यश्रीप्रेम-भुवनभानु-पद्म-हेमचन्द्रसूरीश्वरशिष्य-आचार्यकल्याणबोधेः कर्मारिशून्यनेत्रे (2068) वैक्रमेऽब्देऽश्विन्सितनवमीदिने श्रीपार्श्वनाथ-जैन-सङ्घ श्रीआदि-सीमन्धरजिनपुनितसान्निध्ये ___ समोपनगरे वडोदरानगरे सम्पन्नेति शम् / मिथ्याऽस्तु दुरुक्तं मम / शोधयन्तु कृतकृपा बहुश्रुताः / 122
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy