SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् // व्योमसाम्यः सुखी भव // उपोद्घातः महोपनिषदिति जीवन्मुक्तिमहामार्गः समाध्येकसञ्चरः परमानन्दानुभूतिपदवी परमपदप्रेक्षणैकपरिनिर्मलचक्षुर्विरागरससरःसरसलहरी स्वरूपसुधासन्निमज्जनकमनीयकुण्डश्च / उत्सवोऽयं विदुषाम्, महोत्सवोऽयं मुमुक्षूणाम्, दर्शनञ्चैतदध्यात्मस्य, तदेतदध्ययनेनाऽऽनन्दितो भवत्वधिकार्यध्येतृवर्गः, सफलीभवतु चैष प्रयासः / अधिकारिणस्त्वत्र नयवादविज्ञातारो गीतार्थगुर्वनुज्ञाता बहुश्रुता आत्मान एव, इतरेषामतो गुणासम्भवात्, प्रत्यपायप्रसङ्गाच्च / ते हि यथावस्थितवस्तुविवेचनासमर्थास्तदपेक्षाभिप्रायमबुध्यन्तो मिथ्याऽर्थग्रहणेन नश्यन्ति स्वयम्, नाशयन्ति च स्वप्रतिपाद्यान् / आह चोपनिषत्कृदेव-आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् / पश्चात् सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् // अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् / महानरकजालेषु स तेन विनियोजितः - इति ( महोपनिषदि 5-104, 105) / अत यथोक्त एव प्रवर्तेतात्रेति शम् /
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy