________________ महोपनिषद् अध्यात्मदर्शना भाषित्वायोगात् / एवमेव पद्मतन्तुप्रयुक्ताद्रिबन्धनौपम्यमप्यत्र सङ्गतिमङ्गति, पर्वतापेक्षयाऽतितुच्छत्वात् पद्मतन्तूनाम्, न त्वतितुच्छानामपि तेषामत्यन्ताभावो भवतीति भावनीयम् / / पर्यवसितमाह - तदिदं तृणमात्रं जगत्त्रयं वज्रतां यातम्, अविद्याऽऽवृतानां सत्त्वानामशक्योच्छेदत्वात् संसारस्य, भवति ह्यन्धानां नखच्छेद्यमपि वज्रच्छेद्यमच्छेद्यं वेति निपुणं निभालनीयम् / ध्यान्ध्यमेवैतदपाकर्तुमाह अथापरं प्रवक्ष्यामि, शृणु तात यथायथम् / / अज्ञानभूः सप्तपदा, ज्ञभूः सप्तपदैव हि // 5-1 // यथातथमित्यत्र पाठान्तरम्, युक्ततरं च तत् / भू:- भूमिका, अविद्यातीव्रादिभावप्रसूतसत्त्वदशाविशेष इति भावः / सा चाज्ञानरूपा ज्ञानरूपा च सप्तविधेति यदुक्तम्, तत्स्थूलभेदापेक्षयेति स्पष्टयन्नाह पदान्तराण्यसङ्ख्यानि, प्रभवन्त्यन्यथैतयोः / स्वरूपावस्थितिर्मुक्ति-स्तभ्रंशोऽहन्त्ववेदनम् // 5-2 // पदेत्यादि, असङ्ख्यत्वात्सङ्क्लेशविशुद्धिस्थानानाम्। यत्तु चरमं विशुद्धिस्थानम्, तत्राविद्यात्यन्तक्षययोगेन स्वरूपमात्रसत्तेति तामधिकृत्याह - स्वरूपेत्यादि / तदतिरिक्तत्वे मुक्तेः स्वसम्बन्धित्वाभावप्रसङ्गान्मुख्यमुक्तेरेवानुपपत्तिरिति विचारणीयम् /